Nanda Vrat Vidhan Shiv Stuti

नन्दा व्रत विधान शिवस्तुति -(Nanda Vrat Vidhan Shiv Stuti)

Spread the love

Nanda Vrat Vidhan Shiv Stuti

देवा ऊचुः ।
नमो भगवते तुभ्यं यत एतच्चराचरम् ।
पुरुषाय महेशाय परेशाय महात्मने ॥ ३६॥

आदिबीजाय सर्वेषां चिद्रूपाय पराय च ।
ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७॥

य इदं प्रतिपञ्च्येदं येनेदं विचकास्ति हि ।
यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ॥ ३८॥

योऽस्मात्परस्माच्च परो निर्विकारी महाप्रभुः ।
ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयम्भुवम् ॥ ३९॥

अविद्धदृक् परः साक्षी सर्वात्माऽनेकरूपधृक् ।
आत्मभूतः परब्रह्म तपन्तं शरणं गताः ॥ २.१५.४०॥

न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् ।
कः पुनर्जन्तुरपरो ज्ञातुमर्हति वेदितुम् ॥ ४१॥

दिदृक्षवो यस्य पदं मुक्तसङ्गास्सुसाधवः ।
चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥ ४२॥

त्वज्जन्मादिविकारा नो विद्यन्ते केऽपि दुःखदाः ।
तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥ ४३॥

तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे ।
नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥ ४४॥

अरूपायोरुरूपाय परायानन्तशक्तये ।
त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥ ४५॥

नम आत्मप्रदीपाय निर्वाणसुखसम्पदे ।
ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥ ४६॥

नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः ।
पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४७॥

क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे ॥ ४८॥

सर्वाध्यक्षाय महते मूलप्रकृतये नमः ।
पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४९॥

त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः ।
सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोऽस्तु ते ॥ २.१५.५०॥

त्रिलोककारणायाथापवर्गाय नमो नमः ।
अपवर्गप्रदायाशु शरणागततारिणे ॥ ५१॥

सर्वाम्नायागमानां चोदधये परमेष्ठिने ।
परायणाय भक्तानां गुणानां च नमोऽस्तु ते ॥ ५२॥

नमो गुणारणिच्छन्न चिदूष्माय महेश्वर ।
मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥ ५३॥

पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च ।
स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे ॥ ५४॥

प्रत्यग्द्रष्ट्रेऽविकाराय परमैश्वर्यधारिणे ।
यं भजन्ति चतुर्वर्गे कामयन्तीष्टसद्गतिम् ।
सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥ ५५॥

एकान्तिनः कञ्चनार्थं भक्ता वाञ्छन्ति यस्य न ।
केवलं चरितं ते ते गायन्ति परमङ्गलम् ॥ ५६॥

अक्षरं परमं ब्रह्म तमव्यक्ताकृतिं विभुम् ।
अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥ ५७॥

अतीन्द्रियमनाधारं सर्वाधारमहेतुकम् ।
अनन्तमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥ ५८॥

हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः ।
नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ ५९॥

यथार्चिषोऽग्नेस्सवितुर्यान्ति निर्यान्ति वासकृत् ।
गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥ २.१५.६०॥

न त्वं देवोऽसुरो मर्त्यो न तिर्यङ्न द्विजः प्रभो ।
न स्त्री न षण्ढो न पुमान् सदसन्न च किञ्चन ॥ ६१॥

निषेधशेषस्सर्वं त्वं विश्वकृद्विश्वपालकः ।
विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम् ॥ ६२॥

योगरन्धितकर्माणो यं प्रपश्यन्ति योगिनः ।
योगसम्भाविते चित्ते योगेशं त्वां नता वयम् ॥ ६३॥

नमोऽस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय ।
नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥ ६४॥

कदिन्द्रियाणां दुर्गेशानवाप्य परवर्त्मने ।
भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥ ६५॥

यच्छक्त्याहं धियाऽऽत्मानं हन्त वेद न मूढधीः ।
तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ॥ ६६॥

ब्रह्मोवाच ।
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः ।
तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकन्धराः ॥ ६७॥

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां
द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं नाम पञ्चदशोऽध्यायः ॥

Nanda Vrat Vidhan Shiv Stuti

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *