Siddha kunjika stotram - सिद्ध कुंजिका स्तोत्रम्
प्रकाशित December 12, 2025
159 views

॥ सिद्धकुञ्जिकास्तोत्रम् ॥
शिव उवाच
शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम् ।
येन मन्त्रप्रभावेण, चण्डीजापः शुभो भवेत् ॥१॥
न कवचं नार्गलास्तोत्रं, कीलकं न रहस्यकम् ।
न सूक्तं नापि ध्यानं च, न न्यासो न च वार्चनम् ॥२॥
कुञ्जिकापाठमात्रेण, दुर्गापाठफलं लभेत् ।
अति गुह्यतरं देवि, देवानामपि दुर्लभम् ॥३॥
गोपनीयं प्रयत्‍‌नेन, स्वयोनिरिव पार्वति ।
मारणं मोहनं वश्यं, स्तम्भनोच्चाटनादिकम् ।
पाठमात्रेण संसिद्ध्येत्, कुञ्जिकास्तोत्रमुत्तमम् ॥४॥

अथ मन्त्रः ॥
ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे ॥
ॐ ग्लौं हुं क्लीं जूं सः ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा ॥

॥ इति मन्त्रः ॥

नमस्ते रूद्ररूपिण्यै, नमस्ते मधुमर्दिनि ।
नमः कैटभहारिण्यै, नमस्ते महिषार्दिनि ॥१॥
नमस्ते शुम्भहन्त्र्यै च, निशुम्भासुरघातिनि ।
जाग्रतं हि महादेवि, जपं सिद्धं कुरूष्व मे ॥२॥
ऐंकारी सृष्टिरूपायै, ह्रींकारी प्रतिपालिका ।
क्लींकारी कामरूपिण्यै, बीजरूपे नमोऽस्तु ते ॥३॥
चामुण्डा चण्डघाती च, यैकारी वरदायिनी ।
विच्चे चाभयदा नित्यं, नमस्ते मन्त्ररूपिणि ॥४॥
धां धीं धूं धूर्जटेः पत्‍‌नी, वां वीं वूं वागधीश्‍वरी ।
क्रां क्रीं क्रूं कालिका देवि, शां शीं शूं मे शुभं कुरु ॥५॥
हुं हुं हुंकाररूपिण्यै, जं जं जं जम्भनादिनी ।
भ्रां भ्रीं भ्रूं भैरवी भद्रे, भवान्यै ते नमो नमः ॥६॥
अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं ।
धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥७॥
पां पीं पूं पार्वती पूर्णा, खां खीं खूं खेचरी तथा ।
सां सीं सूं सप्तशती देव्या, मन्त्रसिद्धिं कुरुष्व मे ॥८॥
इदं तु कुञ्जिकास्तोत्रं, मन्त्रजागर्तिहेतवे ।
अभक्ते नैव दातव्यं, गोपितं रक्ष पार्वति ॥
यस्तु कुञ्जिकाया देवि, हीनां सप्तशतीं पठेत् ।
न तस्य जायते सिद्धिर, अरण्ये रोदनं यथा ॥

॥ इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ॥